चतुर्वर्षीयः शास्त्री द्विवर्षीय आचार्यः
क वर्गः ख वर्गः अनिवार्यः
क) ऋग्वेदः नेपाली नेपाली ऋग्वेदः
ख) शुक्लयजुर्वेदः आङ्ग्लभाषा आङ्ग्लभाषा शुक्लयजुर्वेदः
ग) सामवेदः राजनीतिशास्त्रम् अनिवार्यसंस्कृतम् सामवेदः
घ) अथर्ववेदः अर्थशास्त्रम् नेपालाध्ययनम् अथर्ववेदः
ङ) साहित्यम् गणितम् - साहित्यम्
च) व्याकरणम् - - व्याकरणम्
छ) सिद्धान्तज्योतिषम् - - सिद्धान्तज्योतिषम्
ज) फलितज्योतिषम् - - फलितज्योतिषम्
झ) धर्मशास्त्रम् - धर्मशास्त्रम्
ञ) इतिहासपुराणम् इतिहासपुराणम्
ट) पूर्वमीमांसा पूर्वमीमांसा
ठ) तन्त्रम् तन्त्रम्
ड) नव्यन्यायः नव्यन्यायः
ढ) प्राचीनन्यायः प्राचीनन्यायः
ण) सर्वदर्शनम् सर्वदर्शनम्
त) बौद्धदर्शनम् बौद्धदर्शनम्
क) संस्कृतभाषा–प्रशिक्षणम्
एतस्मिन् विद्यापीठे नेपाल–संस्कृत–विश्वविद्यालयात् स्वीकृतिं प्राप्य नियमितरूपेण संस्कृतभाषा–प्रशिक्षणकार्यक्रमः सञ्चाल्यमानो वर्तते । द्वादशीकक्षां तत्समकक्षां वा उत्तीर्णवन्तो नाधीतसंस्कृता विद्यार्थिन एतस्य प्रशिक्षणकार्यक्रमस्य परीक्षामुत्तीर्य वाल्मीकिविद्यापीठे नेपाल–संस्कृत–विश्वविद्यालयस्य कस्मिन्नपि विद्यापीठे वा शास्त्रिस्तरे पञ्जीभूय अध्येतुं शक्नुवन्ति ।
योगस्य सैद्धान्तिक–प्रायोगिकपक्षयोर्दक्षैः प्रशिक्षकैर्योगस्य षाण्मासिकीं सैद्धान्तिक–प्रायोगिककक्षां सञ्चाल्य प्रशिक्षणकार्यक्रमः सञ्चाल्यमानो वर्तते । योगासन–प्राणायाम–ध्यानाहारविहारप्रभृत्यारोगसम्बद्धज्ञानदेनानेन कार्यक्रमेण २०८० वैक्रमाब्दस्य चैत्रमासान्तं यावत् २५०० प्रशिक्षार्थिनो लाभान्विताः सन्ति ।
समाजाय शास्त्रसम्मतपौरुहित्यजनशक्तेर्वर्धमानाभियाचनपूरणोद्देश्येन वाल्मीकिविद्यापीठे नियमितरूपेण मासपञ्चकव्यापी कर्मकाण्ड–प्रशिक्षणकार्यक्रमः सञ्चाल्यमानो वर्तते ।
संस्कृतभाषाजिज्ञासूनां वैदेशिकानां कृते षाण्मासिकी भाषा–प्रशिक्षणकक्षा व्यवस्थिता वर्तते ।