परिचयः
विश्वस्यात्यन्तं समृद्धायां संस्कृतशिक्षायां पौरस्त्यवाङ्मयदर्शनयोश्च सन्निहितो ज्ञानराशिरस्माकं जीवनसरण्या निर्माणस्याधारस्तम्भो वर्तते । अस्माकं मौलिकता पौरस्त्यसभ्यतायां पल्लविते जीवनदर्शने प्रतिबिम्बिता भवति । संस्कृतस्य महिमानं प्रकाशमानीय सभ्य–सुसंस्कृतादर्शसमाजस्य निर्माणम्, समाजे विद्यमानानां विकृतिविसङ्गतीनां निवारणञ्चाद्यतनः समाह्वयो वर्तते । संस्कृतवाङ्मये निबद्धं ज्ञानराशिं समाजे सहजतया विस्तार्य विश्वबन्धुत्वभावनाया जागरणं युगानुकूला आवश्यकतास्ति । विश्वस्यैकमात्रमुत्कृष्टा संस्कृतभाषा सुसाङ्ख्यप्रविधये च सर्वाधिकमुपयुक्तेति तथ्यं वैज्ञानिकैः पुष्ष्टीकृतं वर्तते । संस्कृतस्य वर्णव्याकरणे सुसाङ्ख्यप्रविधयेऽन्याभ्यो भाषाभ्य उत्कृष्टे सम्मते स्तः । इदानीं संस्कृताध्ययनस्य विश्व्यापी तरङ्गो विस्तृतिं जायमानोऽस्ति । एतस्यां पृष्ठभूमौ संस्कृतस्य वैश्विकप्रभावमात्मसात्कृत्य विभिन्नानां जाति–वर्ग–समुदायानां संयुक्तसम्पदो रूपेण प्रयोगोऽत्यावश्यको दृश्यते ।
व्यक्तेः, राष्ट्रस्य विश्वस्य च समृद्धये भौतिकाध्यात्मिकज्ञानस्यावश्यकता भवति । संस्कृते द्विविधोऽयं ज्ञानराशिः सुरक्षितो वर्तते । अपारज्ञानराशिममुमुपयुज्य नेपालिसमाजस्य भौतिकाध्यात्मिकविकासाय उत्कृष्टयोगदानप्रापणस्य, नेपालस्य आविश्वं संस्कृतविद्यायाः केन्द्रस्य रूपेण विकसनस्य चोद्देश्येन नेपाले संस्कृतविद्याया अध्ययनाध्यापनं जायमानं वर्तते । एतत्क्रमे संस्कृतशिक्षाया उच्चस्तरीयपठनपाठनानुसन्धानादिकार्याणां सम्पादनस्योद्देश्येन नेपाले २०४३ वैक्रमाब्दे नेपाल–संस्कृत–विश्वविद्यालयः संंस्थापितः । एतस्योद्देश्यस्य पूर्तये देशस्य पूर्वभागतः सुदूरवर्तिपश्चिमभागपार्यन्तिकेषु विभिन्नक्षेत्रेषु विश्वविद्यालयस्य विद्यापीठानि स्थापितानि सञ्चालितानि च सन्ति । एतेषु विद्यापीठेषु राजधान्यां काष्ठमण्डपे विद्यमानं गरिममयेतिहासवाहकं वाल्मीकिविद्यापीठं प्रमुखमस्ति ।प्राध्यापक–कर्मचारि–विद्यार्थिसङ्ख्यायाः, भौतिकपूर्वाधाराणाम्, शैक्षिककार्यक्रमाणाञ्च दृष्ट्या नेपाल–संस्कृत–विश्वविद्यालयस्यान्तर्गतानामाङ्गिकविद्यापीठानां मध्ये विद्यापीठमिदं विपुलतमं वर्तते ।
वाल्मीकिविद्यापीठं वाग्वतीप्रदेशान्तर्गतस्य काष्ठमण्डपजनपदस्य काष्ठमण्डपमहानगरपालिकाया अष्टाविंशवडाक्षेत्रवर्तिनि प्रदर्शनीमार्गेऽवस्थितमस्ति । १९२७ वैक्रमाब्दे स्थापिता नारायणहिटिपाठशाला, १९३२ वैक्रमाब्दे स्थापिता संस्कृतपाठशाला च वाल्मीकिविद्यापीठस्य स्थापनायाः पूर्वाधारौ मन्तुं शक्येते । तदनु २००८ वैक्रमाब्दे स्थापितो राजकीय–संस्कृत–महाविद्यालय एव सम्प्रति वाल्मीकिविद्यापीठस्य नाम्ना सञ्चालितो वर्तते । विद्यापीठमिदं २०३० विक्रमवर्षतस्त्रिभुवनविश्वविद्यालयस्य संस्कृताध्ययनसंस्थानस्यान्तर्गतं सञ्चाल्यमानमासीत् । २०४३ वैक्रमाब्दे नेपाल–संस्कृत–विश्वविद्यालय ( तात्कालिकमहेन्द्र–संस्कृत–विश्वविद्यालय )–स्य स्थापनानन्तरं विद्यापीठमिदमस्यैव विश्वविद्यालयस्याङ्गिकविद्यापीठस्य रूपेण सञ्चाल्यमानमस्ति ।
भौतिकावस्था
काष्ठमण्डपमहानगरपालिकाया अष्टाविंशवडाक्षेत्रान्तर्गते प्रदर्शनीमार्गे, तीनधारा–संस्कृतच्छात्रावासे च विद्यापीठस्य स्वामित्वे २२–१२–३–६ रोपनीपरिमिता भूमिर्वर्तते । एतस्यां भूमौ इमानि भवनानि सन्ति —
क) शिक्षणभवनम्
ख) प्राशासनिकभवनम्
ग) पुस्तकालयभवनम्
घ) छात्रावासः (तीनधारा–संस्कृतच्छात्रावासः)
पुस्तकालयः
पुस्तकालये पाठ्यक्रमेषु आधृतानि पाठ्यपुस्तकानि अत्यन्तप्राचीनहस्तलिखिता मुद्रितग्रन्थाश्च सन्ति । अन्यत्र अप्राप्यग्रन्थाश्च वाल्मीकिविद्यापीठस्य पुस्तकालये सुरक्षिता वर्तन्ते ।
तीनधारा–संस्कृतच्छात्रावासः
विद्यापीठान्तर्गतस्तीनधारा–संस्कृतच्छात्रावासः शैक्षिकैतिहासिकराजनीतिकमहत्त्वाधायिनी संस्था वर्तते । २००४ वैक्रमाब्दस्य ‘जयतु संस्कृतम्’ आन्दोलनमस्यैव छात्रावासस्य विद्यार्थिभिः सञ्चालितमासीत् । तदान्दोलनं २००७ वैक्रमाब्दस्य प्राजातान्त्रिकान्दोलनाय उत्सोऽवर्तत । छात्रावासोऽयं १९४२ विक्रमवर्षे स्थापित आसीत् । राणाप्रधानमन्त्रिणा धीरशमशेराभिधेन चतुःपञ्चाशतो ब्राह्मणच्छात्राणां कृते नित्यभोजन–साधारणवस्त्रावासानां व्यवस्था विहितासीत् । तदनु तदीयपुत्रो वीरशमशेरोऽतिरिक्तानां चतुः पञ्चाशतश्छात्राणां कृते भोजनावासयोर्व्यवस्थां व्यदधात् । श्री ५ श्री ३ चेति नाम्ना एतादृश्यो वृत्तयो वर्धिताः । २००४÷०५ विक्रमाब्दं यावदेतादृश्याश्छात्रवृत्तेः सङ्ख्या २१० प्राप्ता आसीत् । अनङ्किताङ्का अन्ये योग्या ४०÷५० छात्राश्चैवंविधायाश्छात्रवृत्तेरवसरं लभन्ते स्म । विपन्न–योग्य–जिज्ञासूनां छात्राणां कृते एतदसाधारणसौविध्यमवसरश्चासीत् । अनया व्यवस्थया संस्कृतस्य सामान्यत उच्चस्तरपार्यन्तिकं पठनपाठनं व्यापकरूपेण अग्रे वर्धयितुं महत्साहाय्यं लब्धम् ।
सम्प्रति एतस्मिन् छात्रावासे १११ विद्यार्थिनां कृते भोजनसहितमावाससौविध्यं प्राप्तं वर्तते । एतन्मध्ये राज्ञीपुष्करिणीवर्तिनः संस्कृत–माध्यमिक–विद्यालयस्य ४३, वाल्मीकिविद्यापीठस्य ६८ च विद्यार्थिनः सौविध्यमिदं लभमानाः सन्ति । छात्रावासे रिक्तस्थानानुसारेण परीक्ष्य योग्यताक्रमानुसारेण विद्यार्थिपञ्जीकरणस्य व्यवस्था वर्तते ।