सूचना
विश्वविद्यायलस्य स्थापनार्थं निर्मितस्याधिनियमस्य प्रस्तावनायामुल्लिखितान्युद्देश्यानि एव वाल्मीकिविद्यापीठस्यापि उद्देश्यानि सन्ति । एतस्य विद्यापीठस्योद्देश्यानि अधो लिखितानि सन्ति —
क) संस्कृतशिक्षाया उच्चस्तरपर्यन्तं सुव्यवस्थितीकरणम्,
ख) संस्कृतविद्यया विविधक्षेत्रेषु अधिगतानामुपलब्धीनां समयानुसारेण अध्ययनम्, अनुसन्धानम्, संरक्षणम्, संवर्धनञ्च,
ग) नेपालस्य संस्कृतविद्याया ज्ञानप्रेरणाप्राप्तेः केन्द्रस्य रूपेण विकासनाय महत्त्वपूर्णभूमिकाया निर्वहणम् ।